|
|
 |
 |
|
|
६ भीष्मपर्व.jpg)
॥ श्रीः ॥
6.71. अध्यायः 071
Mahabharata - Bhishma Parva - Chapter Topics
संकुलयुद्धवर्णनम् ॥ 1 ॥

Mahabharata - Bhishma Parva - Chapter Text
सञ्जय उवाच। 6-71-0x(4146)(41811)
दृष्ट्वा भीष्मेण संसक्तान्भ्रातॄनन्यांश्च पार्थिवान् ।
समभ्यधावद्गांङ्गेयमुद्यतास्त्रो धनञ्जयः ॥ 6-71-1(41812)
पाञ्चजन्यस्य निर्घोषं धनुषो गाण्डिवस्य च।
ध्वजं च दृष्ट्वा पार्थस्य सर्वान्नो भयमाविशत् ॥ 6-71-2(41813)
सिंहलाङ्गूलमाकाशे ज्वलन्तमिव पर्वतम्।
असञ्जमानं वृक्षेषु धूमकेतुमिवोत्थितम् ॥ 6-71-3(41814)
बहुवर्णं विचित्रं च दिव्यं वानरलक्षणम् ।
अपश्याम महाराज ध्वजं गाण्डीवधन्वनः ॥ 6-71-4(41815)
सुवर्णपृष्ठं गाण्डीवं रणे द्रक्ष्यामि भारत।
विद्युतं मेघमध्यस्थां भ्राजमानामिवाम्बरे ।
ददृशुर्गाण्डिवं योधा रुक्मपृष्ठं महामृधे ॥ 6-71-5(41816)
आशुश्रुम भृशं चास्य शक्रस्येवाभिगर्जतः।
सुघोरं तलयोः शब्दं निघ्नतस्तव वाहिनीम् ॥ 6-71-6(41817)
चण्डवातो यथा मेघः सविद्युत्स्तनयित्नुमान् ।
दिशः संप्लावयन्सर्वाः शरवर्षैः समन्ततः ॥ 6-71-7(41818)
समभ्यधावद्गाङ्गेयं भैरवास्त्रो धनञ्जयः ।
दिशं प्राचीं प्रतीचीं च न जानीमोऽस्त्रमोहिताः ॥ 6-71-8(41819)
कान्दिग्भूता श्रान्तपत्रा हताश्वा हतचेतसः।
अन्योन्यमभिसंश्लिष्य योधास्ते भरतर्षभ ॥ 6-71-9(41820)
भीष्ममेवाभ्यलीयन्त सह सर्वैस्तवात्मजैः ।
तेषामार्तायनमभूद्भीष्मः शान्तनवो रणे ॥ 6-71-10(41821)
समुत्पतन्ति वित्रस्ता रथेभ्यो रथिनस्तथा ।
सादिनश्चाश्वपृष्ठेभ्यो भूमौ चापि पदातयः ॥ 6-71-11(41822)
श्रुत्वा गाण्डीवनिर्घोषं विस्फूर्जितमिवाशनेः ।
सर्वसैन्यानि भीतानि व्यवालीयन्त भारत ॥ 6-71-12(41823)
अथ काम्भोजैजरश्वैर्महद्भिः शीघ्रगामिभिः ।
गोपानां बहुसाहस्त्रैर्बालैर्गापायनैर्वृतः ॥ 6-71-13(41824)
मद्रसौवीरगान्धारैस्त्रैगर्तैश्च विशांपते ।
सर्वकालिङ्गमुख्यैश्च कलिङ्गाधिपतिर्वृतः ॥ 6-71-14(41825)
नानानरगणौघैश्च दुःशासनपुरःसरः ।
जयद्रथश्च नृपतिः सहितः सर्वराजभिः ॥ 6-71-15(41826)
हयारोहवराश्चैव तव पुत्रेण चोदिताः ।
चतुर्दशसहस्राणि सौबलं पर्यवारयन् ॥ 6-71-16(41827)
ततस्ते सहिताः सर्वे विभक्तरथवाहनाः ।
अर्जुनं समरे जघ्नुस्तावका भरतर्षभ ॥ 6-71-17(41828)
चेदिकाशिपदातैश्च रथैः पाञ्चालसृञ्जयैः ।
पाण्डवाः सहिताः सर्वे धृष्टद्युम्नपुरोगमाः।
तावकान्समरे जघ्नुर्धर्मपुत्रेण चोदिताः ॥ 6-71-18(41829)
रथिभिर्वारणैरश्वैः पादातैश्च समीरितम् ।
घोरमायोधनं चक्रे महाभ्रसदृशं रजः ॥ 6-71-19(41830)
तोमरप्रासनाराचगजाश्वरथयोधिनाम् ।
बलेन महता भीष्मः समसञ्जत्किरीटिना ॥ 6-71-20(41831)
आवन्त्यः काशिराजेन भीमसेनेन सैन्धवः ।
अजातशत्रुर्मद्राणामृषभेण यशश्विना ॥ 6-71-21(41832)
सहपुत्रः सहामात्यः शल्येन समसञ्जत।
विकर्णः सहदेवेन चित्रसेनः शिखण्डिना ॥ 6-71-22(41833)
मत्स्या दुर्योधनं जग्मुः शंकुनिं न विशांपते।
द्रुपदश्चेकितानश्च सात्यकिश्चक महारथः ॥ 6-71-23(41834)
द्रोणेन समसञ्जन्त सपुत्रेण महात्मना ।
कृपश्च कृतवर्मा च धृष्टद्युम्नमभिद्रुतौ ॥ 6-71-24(41835)
एवं प्रव्रजिताश्वानि भ्रान्तनागरथानि च।
सैन्यानि समसञ्जन्त प्रयुद्धानि समन्ततः ॥ 6-71-25(41836)
निरभ्रे विद्युतस्तीव्रा दिशश्च रजसा वृताः ।
प्रादुरासन्महोत्काश्च सनिर्घाता विशांपते ॥ 6-71-26(41837)
प्रादुर्भूतो महावातः पांसुवर्षं पपात च ।
नभस्यन्तर्दधे सूर्यः सैन्येन सजसा वृतः ॥ 6-71-27(41838)
प्रमोहः सर्वसत्वानामतीव समपद्यत।
रजसा चाभिभूतानामस्त्रजालैश्च तुद्यताम् ॥ 6-71-28(41839)
वीरबाहुविसृष्टानां सर्वावरणभेदिनाम् ।
संघातः शरजालानां तुमुलः समपद्यत ॥ 6-71-29(41840)
प्रकाशं चक्रुराकाशमुद्यतानि भुजोत्तमैः ।
नक्षत्रविमलाभानि शस्त्राणि भरतर्षभ ॥ 6-71-30(41841)
आर्षभाणि विचित्राणि रुक्मजालावृतानि च ।
संपेतुर्दिक्षु सर्वासु चर्माणि भरतर्षभ ॥ 6-71-31(41842)
सूर्यवर्णैश्च निस्त्रिंशैः पात्यमानानि सर्वशः ।
दिक्षु सर्वास्वदृश्यन्त शरीराणि शिरांसि च । 6-71-32(41843)
भग्नचक्राक्षनीडाश्च निपातितमहाध्वजाः ।
हताश्वाः पृथिवीं जग्मुस्तत्रतत्र महारथाः ॥ 6-71-33(41844)
परिपेतुर्हयाश्चात्र केचिच्छस्त्रकृतव्रणाः ।
रथान्विपरिकर्षन्तो हतेषु रथयोधिषु ॥ 6-71-34(41845)
शराहता भिन्नदेहा बद्धयोक्रा हयोत्तमाः ।
युगानि पर्यकर्षन्त तत्रतत्र स्म भारत। 6-71-35(41846)
अदृश्यन्त ससूताश्च साश्वाः सरथयोधिनः ।
एकेन बलिना राजन्वारणेन विमर्दिताः ॥ 6-71-36(41847)
गन्धहस्तिमदस्रावमाघ्राय बहवो रणे।
सन्निपाते बलौघानां गजैर्ममृदिरे गजाः ॥ 6-71-37(41848)
सतोमरैर्महामात्रैर्निपतद्भिर्गतासुभिः ।
बभूवायोधनं छन्नं नाराचाभिहतैर्गजैः ॥ 6-71-38(41849)
सन्निपाते बलौघानां प्रेषितैर्वरवारणैः ।
निपेतुर्युधि संभग्नाः सयोधाः सध्वजा गजाः ॥ 6-71-39(41850)
नागराजोपमैर्हस्तैर्नागैराक्षिप्य संयुगे ।
व्यदृश्यन्त महाराज संभग्ना रथकूबराः ॥ 6-71-40(41851)
विशीर्णरथसङ्घाश्च केशेष्वाक्षिप्य दन्तिभिः ।
द्रुमशाखा इवाविध्य निष्पिष्टा रथिनो रणे ॥ 6-71-41(41852)
रथेषु च रथान्युद्धे संसक्तान्वरवारणाः ।
विकर्षन्तो दिशः सर्वाः संपेतुः सर्वशब्दगाः ॥ 6-71-42(41853)
तेषां तथा कर्षतां तु गजानां रूपमाबभौ ।
सरःसु नलिनीजालं विषक्तमिव कर्षताम् ॥ 6-71-43(41854)
एवं संछादितं तत्र बभूवायोधनं महत्।
सादिभिश्च पदातैश्च सध्वजैश्च महारथैः ॥ ॥ 6-71-44(41855)
इति श्रीमन्महाभारते भीष्मपर्वणि भीष्मवधपर्वणि पञ्चमदिवसयुद्धे एकसप्ततितमोऽध्यायः ॥
Mahabharata - Bhishma Parva - Chapter Footnotes
6-71-7 स्तनयित्नुर्गर्जितम् ॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|